Bhakti Rang – भक्ति रंग Wishes For Facebook, Whatsapp, Pinterest, Instagram


Dashrathkrut Shani Stotra

1 Star2 Stars3 Stars4 Stars5 Stars 5
Loading...

Shri Shanidev

|| दशरथ कृत शनि स्तोत्र ||

नम: कृष्णाय नीलाय शितिकण्ठनिभाय च।
नम: कालाग्निरूपाय कृतान्ताय च वै नम:॥१॥

नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयाकृते॥२॥

नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम:।
नमो दीर्घायशुष्काय कालदष्ट्र नमोऽस्तुते॥३॥

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नम: ।
नमो घोराय रौद्राय भीषणाय कपालिने॥४॥

नमस्ते सर्वभक्षाय वलीमुखायनमोऽस्तुते।
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च॥५॥

अधोदृष्टे: नमस्तेऽस्तु संवर्तक नमोऽस्तुते ।
नमो मन्दगते तुभ्यं निरिाणाय नमोऽस्तुते॥६॥

तपसा दग्धदेहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नम:॥७॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात्॥८॥

देवासुरमनुष्याश्च सिद्घविद्याधरोरगा: ।
त्वया विलोकिता: सर्वे नाशंयान्ति समूलत:॥९॥

प्रसाद कुरु मे देव वाराहोऽहमुपागत ।
एवं स्तुतस्तद सौरिग्र्रहराजो महाबल:॥१०॥

View More

Navagraha Stotra

1 Star2 Stars3 Stars4 Stars5 Stars 5
Loading...

|| नवग्रह स्तोत्र ||

अथ नवग्रह स्तोत्र ||
श्री गणेशाय नमः ||
जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् |
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् || १ ||

दधिशंखतुषाराभं क्षीरोदार्णव संभवम् |
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् || २ ||

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् |
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् || ३ ||

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् || ४ ||

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् |
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् || ५ ||

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् |
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् || ६ ||

नीलांजन समाभासं रविपुत्रं यमाग्रजम् |
छायामार्तंड संभूतं तं नमामि शनैश्चरम् || ७ ||

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् || ८ ||

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् || ९ ||

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः |
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति||१० ||

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् |
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् || ११ ||

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः |
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः || १२ ||

|| इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं ||

View More

Shri Surya Kavach Stotra

1 Star2 Stars3 Stars4 Stars5 Stars 5
Loading...

Om Suryay Namah

|| श्री सूर्यकवच स्तोत्र ||

श्री गणेशाय नमः |
याज्ञवल्क्य उवाच |

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् |
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् || १ ||

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् |
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् || २ ||

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः |
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः || ३ ||

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः |
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः || ४ ||

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः |
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः || ५ ||

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके |
दधाति यः करे तस्य वशगाः सर्वसिद्धयः || ६ ||

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः |
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति || ७ ||

II इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं ||

View More

Shri Saraswati Stotram

1 Star2 Stars3 Stars4 Stars5 Stars 5
Loading...

Shri Saraswati

|| श्री सरस्वती (बुद्धि) स्तोत्र ||

याज्ञवल्क्य उवाच—

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशपात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥१॥

ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् ।
ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥२॥

प्रतिभां सत्सभायां च विचार क्षमतां शुभाम् ।
लुप्तं सर्वं दैवयोगान्नवीभूतं पुनःकुरु ॥३॥

यथांकुरुं भस्मानि च करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ॥४॥

सर्वविद्याधिदेवी या तस्यै वाण्यै नमोनमः ।
विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥५॥

तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः ।
व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥६॥

यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते ।
कालसंख्यारूपा या तस्यै देव्यै नमोनमः ॥७॥

भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमोनमः ।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥८॥

प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥९॥

बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः ।
तदा जगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥१०॥

उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥११॥

चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।
यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥१२॥

बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः ।
तदा तां स च तुष्टाव संत्रस्तः कश्यपाज्ञया ॥१३॥

ततश्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ॥१४॥

मौनीमूतश्च सस्मार तामेव जगदंबिकाम् ।
तदा चकार सिद्धान्तं तद्धरेण मुनीश्वरः ॥१५॥

संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीकम् ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥१६॥

तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत्कवींद्रो बभूव ह ॥१७॥

तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेंद्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥१८॥

क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥१९॥

दिव्यं वर्षसहस्त्रं च सा त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्त्रकम् ॥२०॥

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥२१॥

ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् ।
त्वं संस्तुता पूजिता च मुनींद्रैर्मुनिमानवैः ॥२२॥

दैत्येंद्रैश्चसुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।
जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥२३॥

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंधरः ॥२४॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरुपा महामाया तेन द्ष्टाप्युवाच तम् ॥२५॥

सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम हे ।
याज्ञवल्क्यकृतं वाणीस्तोत्रमतेत्तु यः पठेत् ॥२६॥

महामूर्खश्च दुर्बुध्दिर्वर्षमेकं यदा पठेत् ।
स पंडितश्च मेधावी सुकवींद्रो भवेद्ध्रुवम् ॥२७॥

View More

Subscribe

Loading