Shri Surya Kavach Stotra


Om Suryay Namah

|| श्री सूर्यकवच स्तोत्र ||

श्री गणेशाय नमः |
याज्ञवल्क्य उवाच |

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् |
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् || १ ||

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् |
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् || २ ||

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः |
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः || ३ ||

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः |
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः || ४ ||

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः |
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः || ५ ||

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके |
दधाति यः करे तस्य वशगाः सर्वसिद्धयः || ६ ||

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः |
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति || ७ ||

II इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं ||

More Entries

  • Shri Ashtalakshmi Stotra
  • Shri Maha Lakshmi Stotra
  • Dattatreya
  • Shri Ganpati Raksha Stotra
  • Shri Ganesh Raksha Stotra
  • Pandurang

Leave a comment

(will not be published)

Subscribe

Loading