Smita Haldankar - Wishes, Greetings


Shri Maha Lakshmi Stotra

1 Star2 Stars3 Stars4 Stars5 Stars 5
Loading...

Shri Maha Lakshmi Stotra

|| श्री महालक्ष्मी स्तोत्र ||

|| श्री महालक्ष्मी स्तोत्र ||

अथ श्रीमहालक्ष्मीस्तोत्रम् ।
श्रीगणेशाय नमः ॥ पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जयमातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूताहितार्थाय वसुवृष्टिं सदा कुरु ॥3॥

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥४॥

नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥

रक्ष त्वंदेवदेवेशि देवदेवस्य वल्लभे ।
दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नम्म्ति त्वां जगदानंददायिनि ॥७॥

विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥

नमः प्रद्युम्रजननि मातस्तुभ्यं नमो नमः ।
परिपालय भो मातर्मा तुभ्यं शरणागतम् ॥१०॥

शर्ण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥

पांडित्यं शोभते नैव न शोभंति गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वयाविना ॥१२॥

तावद्धिराजते रूपं तावच्छीलं विराजते ।
तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥१३॥

लक्ष्मि त्वयालंकृतमानवा ये पापैर्विमुक्तानृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवंति दुःशीलिनः शीलवतां वरिष्ठाः ॥१४॥

लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् ।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥१५॥

लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्नतां ।
रुद्राद्या रविचंद्रदेवपतयो वक्तुं च नैव क्षमाः ।

अस्माभिस्तव रूपलक्षणगुणान्वक्तुः कथं शक्यते ।
मातर्मा परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥१६॥

दैन्यार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायक्म कुरु ॥१७॥

मां विलोक्य जननि हरिप्रिये निर्धनं तव समीपमागतम् ।
देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकांचनवरान्नमद्भुतम् ॥१८॥

त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ।
भ्राता त्वं च सखा लक्ष्मि विद्या लक्ष्मि त्वमेव च ॥१९॥

त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातर्दारिद्र्यात्त्राहिवेगतः ॥२०॥

नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनि ॥२१॥

दारिद्र्यार्णवामग्नोऽहं निमग्नोऽहं रसातले ।
मज्जंतं मां करे धृत्वा सुद्धर त्वं रमे द्रुतम् ॥२२॥

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अनन्मे शरण नास्ति सत्यं सत्यं हरिप्रिये ॥२३॥

एतच्छुत्वाऽगस्तिवाक्यं ह्रष्यमाणा हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥२४॥

लक्ष्मीरुवाच । यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
श्रृणोति च महाबागस्तस्याहं वशवर्तिनी ॥२५॥

नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।
ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥२६॥

यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः ।
गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिनासह ॥२७॥

सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान् भवेत् ।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥२८॥

इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितम् ।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥२९॥

राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥३०॥

न शस्त्रानलतो यौधाद्भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥३१॥

मंदुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥३२॥

सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।
अगस्तिमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥३३॥

इत्यगस्तिविरचितं श्रीमहालक्ष्मीस्तोत्रं संपूर्णम् ।

Shri Ashtalakshmi Stotra

1 Star2 Stars3 Stars4 Stars5 Stars 5
Loading...

Shri Ashtalakshmi Stotra

श्री अष्टलक्ष्मी स्तोत्र

श्री अष्टलक्ष्मी स्तोत्र

आदिलक्ष्मी |
सुमनसवन्दित सुन्दरि माधवी चन्द्र सहोदरीहेममये |
मुनिगणमंडित मोक्षप्रदायिनी मंजुलभाषिणीवेदनुते ||
पंकजवासिनी देवसुपुजित सद्रुणवर्षिणी शांतियुते |
जय जय हे मधुसुदन कामिनी आदिलक्ष्मी सदापलीमाम||१||

धान्यलक्ष्मी |
अहिकली कल्मषनाशिनि कामिनी वैदिकरुपिणी वेदमये |
क्षीरमुद्भव मंगलरूपिणी मन्त्रनिवासिनी मन्त्रनुते | |
मंगलदायिनि अम्बुजवासिनि देवगणाश्रित पाद्युते |
जय जय हे मधुसुदन कामिनी धान्यलक्ष्मी सदा पली माम||२||

धैर्यलक्ष्मी |
जयवरवर्णिनी वैष्णवी भार्गवी मन्त्रस्वरूपिणी मन्त्रम्ये |
सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनी शास्त्रनुते ||
भवभयहारिणी पापविमोचनि साधुजनाश्रित पादयुते |
जय जय हे मधुसुदन कामिनी धैर्यलक्ष्मी सदापलेमाम||३||

गजलक्ष्मी |
जयजय दुर्गतिनाशिनी कामिनी सर्वफलप्रद शास्त्रमये |
रथगज तुरगपदादी समावृत परिजनमंडित लोकनुते ||
हरिहर ब्रम्हा सुपूजित सेवित तापनिवारिणी पादयुते |
जय जय हे मधुसुदन कामिनी गजलक्ष्मी रूपेण पलेमाम||४||

संतानलक्ष्मी |
अहिखग वाहिनी मोहिनी चक्रनि रागविवर्धिनी लोकहितैषिणी |
स्वरसप्त भूषित गाननुते सकल सूरासुर देवमुनीश्वर ||
मानववन्दित पादयुते |
जय जय हे मधुसुदन कामिनी संतानलक्ष्मी त्वं पालयमाम||५||

विजय लक्ष्मी |
जय कमलासनी सद्रतिदायिनी ज्ञानविकासिनी गानमये |
अनुदिनमर्चित कुमकुमधूसर-भूषित वासित वाद्यनुते ||
कनकधस्तुति वैभव वन्दित शंकर देशिक मान्य पदे |
जय जय हे मधुसुदन कामिनी विजयलक्ष्मी सदा पालय माम||६||

विद्यालक्ष्मी |
प्रणत सुरेश्वरी भारती भार्गवी शोकविनासिनी रत्नमये |
मणिमयभूषित कर्णविभूषण शांतिसमवृत हास्यमुखे ||
नवनिधिदायिनी कलिमहरिणी कामित फलप्रद हस्त युते |
जय जय हे मधुसुदन कामिनीविद्यालक्ष्मी सदा पालय माम||७||

धनलक्ष्मी |
धिमिधिमी धिंधिमी धिंधिमी धिंधिमी दुन्दुभी नाद सुपूर्णमये |
घूमघूम घुंघुम घुंघुम घुंघुम शंखनिनाद सुवाद्यनुते ||
वेदपूराणेतिहास सुपूजित वैदिकमार्ग प्रदर्शयुते |
जय जय हे मधुसुदन कामिनी धनलक्ष्मी रूपेण पालय माम||८||

Subscribe

Loading